Spirtual Awareness

अध्याय ७ (Chapter 7) में भगवान ने ज्ञान और भक्ति दोनों बताये हैं।

श्लोक १ (Sloka 1 / VERSE 1) –

मय्यासक्तमना: पार्थ योगं युञ्जन्मदाश्रय: ।
असंशयं समग्रं मां यथा ज्ञास्यसि तच्छृणु ।।1।।

श्लोक २ (Sloka 2 / VERSE 2) –

ज्ञानं तेऽहं सविज्ञानमिदं वक्ष्याम्यशेषत: ।
यज्ज्ञात्वा नेह भूयोऽन्यज्ज्ञातव्यमवशिष्यते ।।2।।

श्लोक ३ (Sloka 3 / VERSE 3) –

मनुष्याणां सहस्त्रेषु कश्चिद्यतति सिद्धये ।
यततामपि सिद्धानां कश्चिन्मां वेत्ति तत्त्वत: ।।3।।

श्लोक ४, ५ (Sloka 4,5 / VERSE 4,5) –

भूमिरापोऽनलो वायु: खं मनो बुद्धिरेव च ।
अहंकार इतीयं मे भिन्ना प्रकृतिरष्टधा ।।4।।
अपरेयमितस्त्वन्यां प्रकृतिं विद्धि मे पराम् ।
जीवभूतां महाबाहो ययेदं धार्यते जगत् ।।5।।

श्लोक ६ (Sloka 6 / VERSE 6) –

एतद्योनीनि भूतानि सर्वाणीत्युपधारय ।
अहं कृत्स्नस्य जगत: प्रभव: प्रलयस्तथा ।।6।।

श्लोक ७ (Sloka 7 / VERSE 7) –

मत्त: परतरं नान्यत्किंचिदस्ति धनंजय ।
मयि सर्वमिदं प्रोतं सूत्रे मणिगणा इव ।।7।।

श्लोक ८ (Sloka 8 / VERSE 8) –

रसोऽहमप्सु कौन्तेय प्रभास्मि शशिसूर्ययो: ।
प्रणव: सर्ववेदेषु शब्द: खे पौरुषं नृषु ।।8।।

श्लोक ९ (Sloka 9 / VERSE 9) –

पुण्यो गन्ध: पृथिव्यां च तेजश्चास्मि विभावसौ ।
जीवनं सर्वभूतेषु तपश्चास्मि तपस्विषु ।।9।।

श्लोक १० (Sloka 10 / VERSE 10) –

बीजं मां सर्वभूतानां विद्धि पार्थ सनातनम् ।
बुद्धिर्बुद्धिमतामस्मि तेजस्तेजस्विनामहम् ।।10।।

श्लोक ११ (Sloka 11 / VERSE 11) –

बलं बलवतां चाहं कामरागविवर्जितम् ।
धर्माविरुद्धो भूतेषु कामोऽस्मि भरतर्षभ ।।11।।

श्लोक १२ (Sloka 12 / VERSE 12) –

ये चैव सात्त्विका भावा राजसास्तामसाश्च ये ।
मत्त एवेति तान्विद्धि न त्वहं तेषु ते मयि ।।12।।

श्लोक १३ (Sloka 13 / VERSE 13) –

त्रिभिर्गुणमयैर्भावैरेभि: सर्वमिदं जगत् ।
मोहितं नाभिजानाति मामेभ्य: परमव्ययम् ।।13।।

श्लोक १४ (Sloka 14 / VERSE 14) –

दैवी ह्रोषा गुणमयी मम माया दुरत्यया ।
मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते ।।14।।

श्लोक १५ (Sloka 15 / VERSE 15) –

न मां दुष्कृतिनो मूढा: प्रपद्यन्ते नराधमा: ।
माययापहृतज्ञाना आसुरं भावमाश्रिता: ।।15।।

श्लोक १६ (Sloka 16 / VERSE 16) –

चतुर्विधा भजन्ते मां जना: सुकृतिनोऽर्जुन ।
आर्तो जिज्ञासुरर्थार्थी ज्ञानी च भरतर्षभ ।।16।।

श्लोक १७ (Sloka 17 / VERSE 17) –

तेषां ज्ञानी नित्ययुक्त एकभक्तिर्विशिष्यते ।
प्रियो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रिय: ।।17।।

श्लोक १८ (Sloka 18 / VERSE 18) –

उदारा: सर्व एवैते ज्ञानी त्वात्मैव मे मतम् ।
आस्थित: स हि युक्तात्मा मामेवानुत्तमां गतिम् ।।18।।

श्लोक १९ (Sloka 19 / VERSE 19) –

बहूनां जन्मनामन्ते ज्ञानवान्मां प्रपद्यते ।
वासुदेव: सर्वमिति स महात्मा सुदुर्लभ: ।।19।।

श्लोक १९ भाग-२ (Sloka 19 Part-2/ VERSE 19 Part-2) –

बहूनां जन्मनामन्ते ज्ञानवान्मां प्रपद्यते ।
वासुदेव: सर्वमिति स महात्मा सुदुर्लभ: ।।19।।

श्लोक २० (Sloka 20 / VERSE 20) –

कामैस्तैस्तैर्हृतज्ञाना: प्रपद्यन्तेऽन्यदेवता: ।
तं तं नियममास्थाय प्रकृत्या नियता: स्वया ।।20।।

श्लोक २१ (Sloka 21 / VERSE 21) –

यो यो यां यां तनुं भक्त: श्रद्धयार्चितुमिच्छति ।
तस्य तस्याचलां श्रद्धां तामेव विदधाम्यहम् ।।21।।

श्लोक २२ (Sloka 22 / VERSE 22) –

स तया श्रद्धया युक्तस्तस्याराधनमीहते ।
लभते च तत: कामान्मयैव विहितान्हि तान् ।।22।।

श्लोक २३ (Sloka 23 / VERSE 23) –

अन्तवत्तु फलं तेषां तद्भवत्यल्पमेधसाम् ।
देवान्देवयजो यान्ति मद्भक्ता यान्ति मामपि ।।23।।

श्लोक २४ (Sloka 24 / VERSE 24) –

अव्यक्तं व्यक्तिमापन्नं मन्यन्ते मामबुद्धय: ।
परं भावमजानन्तो ममाव्ययमनुत्तमम् ।।24।।

श्लोक २५ (Sloka 25 / VERSE 25) –

नाहं प्रकाश: सर्वस्य योगमायासमावृत:।
मूढ़ोऽयं नाभिजानाति लोको मामजमव्ययम् ॥25॥

श्लोक २६ (Sloka 26 / VERSE 26) –

वेदाहं समतीतानि वर्तमानानि चार्जुन ।
भविष्याणि च भूतानि मां तु वेद न कश्चन ।।26।।

श्लोक २७ (Sloka 27 / VERSE 27) –

इच्छाद्वेषसमुत्थेन द्वन्द्वमोहेन भारत ।
सर्वभूतानि संमोहं सर्गे यान्ति परंतप ।।27।।

श्लोक २८ (Sloka 28 / VERSE 28) –

येषां त्वन्तगतं पापं जनानां पुण्यकर्मणाम् ।
ते द्वन्द्वमोहनिर्मुक्ता भजन्ते मां दृढव्रता: ।।28।।

श्लोक २९ (Sloka 29 / VERSE 29) –

जरामरणमोक्षाय मामाश्रित्य यतन्ति ये ।
ते ब्रह्रा तद्विदु: कृत्स्नमध्यात्मं कर्म चाखिलम् ||29||

श्लोक ३० (Sloka 30 / VERSE 30) –

साधिभूताधिदैवं मां साधियज्ञं च ये विदु: ।
प्रयाणकालेऽपि च मां ते विदुर्युक्तचेतस: ।।30।।